|
|
 |
 |
|
|
५ उद्योगपर्व.jpg)
॥ श्रीः ॥
5.27. अध्यायः 027
Mahabharata - Udyoga Parva - Chapter Topics
सञ्जयेन युधिष्ठिरंप्रति युद्धे दोषोद्भावनपूर्वकं परैभोगाप्रदानेपि शमाश्रयगम्यैव .....कथनम् ॥ 1 ॥
Mahabharata - Udyoga Parva - Chapter Text
सञ्जय उवाच। 5-27-0x(3428)(32484)
धर्मनित्या पाण्डव ते विचेष्टा
लोके श्रुता दृश्यते चापि पार्थ ।
महाश्रावं जीवित चाप्यनित्यं
संपश्य त्वं पाण्डव मा व्यनीनशः ॥ 5-27-1(32485)
नचेद्भागं कुरवोऽन्यत्र युद्धा-
त्प्रयच्छेरंस्तुभ्यमजातशत्रो।
भैक्षचर्यामन्धकवृष्णिराज्ये
श्रेयो मन्ये न तु युद्धेन राज्यम् ॥ 5-27-2(32486)
अल्पकालं जीवितं यन्मनुष्ये
महास्रावं नित्यदुःखं चलं च।
भूयश्च तद्यशसो नानुरूपं
तस्मात्पापं पाण्डव मा कृथास्त्वम् ॥ 5-27-3(32487)
कामा मनुष्यं प्रसजन्त एते
धर्मस्य ये विघ्नमूलं नरेन्द्र ।
पूर्वं नरस्तान्मतिमान्प्रणिघ्नन्
लोके प्रशंसां लभतेऽनवद्याम् ॥ 5-27-4(32488)
निबन्धनी ह्यर्थतृष्णेह पार्थ
तामिच्छतां बाध्यते धर्म एव।
धर्मं तु यः प्रणृणीते स बुद्धः
कामे गृध्नो हीयतेऽर्थानुरोधात् ॥ 5-27-5(32489)
धर्मं कृत्वा कर्मणां तात मुख्यं
महाप्रतापः सवितेव भाति।
हीनो हि धर्मेण महीमपीमां
लब्ध्वा नरः सीदति पापबुद्धिः ॥ 5-27-6(32490)
वेदोऽधीतश्चरितं ब्रह्मचर्यं
यज्ञैरिष्टं ब्राह्मणेभ्यश्च दत्तम् ।
परं स्थानं मन्यमानेन भूय
आत्मा दत्तो वर्षपूगं सुखेभ्यः ॥ 5-27-7(32491)
सुखप्रिये सेवमानोऽतिवेलं
योगाभ्यासे यो न करोति कर्म।
वित्तक्षये हीनसुखोऽतिवेलं
दुःखं शेते कामवेगप्रणुन्नः ॥ 5-27-8(32492)
एवं पुनर्ब्रह्मचर्याऽप्रसक्तो
हित्वा धर्मं यः प्रकरोत्यधर्मम्।
अश्रद्दधत्परलोकाय मूढो
हित्वा देहं तप्यते प्रेत्य मन्दः ॥ 5-27-9(32493)
न कर्मणां विप्रणाशोऽस्त्यमुत्र
पुण्यानां वाऽप्यथवा पापकानाम् ।
पूर्वं कर्तुर्गच्छति पुण्यपापं
पश्चात्त्वेनमनुयात्येव कर्ता ॥ 5-27-10(32494)
न्यायोपेतं ब्राह्मणेभ्योऽथ दत्तं
श्रद्धापूतं गन्धरसोपपन्नम् ।
अन्वाहार्येषूत्तमदक्षिणेषु
तथारूपं कर्म विख्यायते ते ॥ 5-27-11(32495)
इह क्षेत्रे क्रियते पार्थ कार्यं
न वै किंचित्क्रियते प्रेत्य कार्यम् ।
कृतं त्वया पारलोक्यं च कर्म
पुण्यं महत्सद्भिरतिप्रशस्तम् ॥ 5-27-12(32496)
जहाति मृत्युं च जरां भयं च
न क्षुत्पिपासे मनसोऽप्रियाणि।
न कर्तव्यं विद्यते तत्र किंचि-
दन्यत्र वै चेन्द्रियप्रीणनाद्धि ॥ 5-27-13(32497)
एवंरूपं कर्मफलं नरेन्द्र
मातापित्रोर्हृदयस्याप्रियेण।
त्यज क्रोधं पाण्डव हर्षजं च
लोकावुभौ मा प्रहासीश्चिराया ॥ 5-27-14(32498)
अन्तं गत्वा कर्मणां या प्रशंसा
सत्यं दमं चार्जवमानृशंस्यम् ।
अश्वमेधं राजसूयं तथेष्ट्वा
पापस्यान्तं कर्मणो मा पुनर्गाः ॥ 5-27-15(32499)
तच्चेदेवं द्वेषरूपेण पार्थाः
करिष्यध्वं कर्म पापं चिराय।
निवसध्वं वर्षपूगान्वनेषु
दुःखं वासं पाण्डवा धर्म एव ॥ 5-27-16(32500)
प्रव्रज्यया यातयित्वा पुरस्ता-
दात्माधीनं यद्बलं ते तदाऽसीत्।
नित्यं च वश्याः सचिवास्तवेमे
जनार्दनो युयुधाश्च वीरः ॥ 5-27-17(32501)
मत्स्यो राजा रुक्मरथः सपुत्रः
प्रहारिभिः सहपुत्रैर्विराटः।
राजानस्ते ये विजिताः पुरस्ता-
त्त्वामेव ते संश्रयेयुः समस्ताः ॥ 5-27-18(32502)
महासहायः प्रतपन्बलस्थः
पुरस्कृतो वासुदेवार्जुनाभ्याम्।
वरान्हनिष्यन्द्विषतो रङ्गमध्ये
व्यनेष्यथा धार्तराष्ट्रस्य दर्पम् ॥ 5-27-19(32503)
बलं कस्माद्वर्धयित्वा परस्य
निजान्कस्मात्कर्शयित्वा सहायान्।
निरुष्य कस्माद्वर्षपूगान्वनेषु
युयुत्ससे पाण्डव हीनकाले॥ 5-27-20(32504)
अप्राज्ञो वा पाण्डव युद्ध्यमानो-
ऽधर्मज्ञो वा भूतिमथोऽभ्युपैति।
प्रज्ञावान्वा बुद्ध्यमानोऽपि धर्मं
संस्तम्भाद्वा सोऽपि भूतेरपैति ॥ 5-27-21(32505)
नाधर्मे ते धीयते पार्थ बुद्धि-
र्न संरम्भात्कर्म चकर्थ पापम् ।
आत्थ किं तत्कारणं यस्य हेतोः
प्रज्ञाविरुद्धं कर्म चिकीर्षसीदम् ॥ 5-27-22(32506)
अव्याधिजं कटुकं शीर्षरोगि
यशोमुषं पापफलोदयं वा।
सतां पेयं यन्न पिबन्त्यसन्तो
मन्युं महाराज पिब प्रशाम्य ॥ 5-27-23(32507)
पापानुबन्धं को नु तं कामयेत
क्षमैव ते ज्यायसी नोत भोगाः ।
यत्र भीष्मः शान्तनवो हतः स्या-
द्यत्र द्रोणः सहपुत्रो हतः स्यात् ॥ 5-27-24(32508)
कृपः शल्यः सौमदत्तिर्विकर्णो
विविंशतिः कर्णदुर्योधनौ च।
एतान्हत्वा कीदृशं तत्सुखं स्या-
द्यद्विन्देथास्तदनुब्रूहि पार्थ ॥ 5-27-25(32509)
लब्ध्वाऽपीमां पृथिवीं सागरान्तां
जरामृत्यू नैव हि त्वं प्रजह्याः।
प्रियाप्रिये सुखदुःखे च राज-
न्नैवं विद्वान्नैव युद्धं कुरु त्वम् ॥ 5-27-26(32510)
अमात्यानां यदि कामस्य हेतो-
रेवं युक्तं कर्म चिकीर्षसि त्वम्।
अपक्रमेः स्वं प्रदायैव तेषां
मागास्त्वं वै देवयानात्पथोऽद्य ॥ ॥ 5-27-27(32511)
इति श्रीमन्महाभारते उद्योगपर्वणि सञ्जययानपर्वणि सप्तविंशोऽध्यायः ॥
Mahabharata - Udyoga Parva - Chapter Footnotes
5-27-1 महान् श्रावः श्रवणं यण महाकीर्तीत्यर्थः। मा व्यनीनशः क्रोधेन धार्तराष्ट्रन् मा नाशय ॥ 1 ॥ 5-27-4 प्रसजन्ते स्पृशन्ति ॥ 4 ॥ 5-27-5 गृघ्नः स्पृहावान् ॥ 5 ॥ 5-27-6 कर्मणां अर्थकामाद्यर्थानां मध्ये ॥ 6 ॥ 5-27-7 परं स्थानं परलोकं मन्यमानेन मानयता। पर्षपूगं वर्षगणम्। तत्रत्यसुखेभ्यस्तदर्थं त्वया आत्मापि दत्तः ॥ 7 ॥ 5-27-8 सुखप्रिये भोगान् पुत्रादींश्च सेवमानः । योगाभ्यासे चित्तवृत्तिनिरोधमभ्यसितुं कर्म आसनप्राणायामादिकं न करोति ॥ 8 ॥ 5-27-9 धर्मं च यज्ञादिरूपं हित्वा यः अधर्ममेव प्रकरोति संचिनोति ॥ 9 ॥ 5-27-10 कृतं कर्म भोगं विना आत्मज्ञानं विना वा न नश्यतीत्यर्थः ॥ 10 ॥ 5-27-11 अन्वाहार्येष्वित्यनेन श्रौतमिष्ट्यादिकं लक्ष्यते। तत्रहि अन्वाहार्यो दक्षिणात्वेन दीयते ॥ 11 ॥ 5-27-12 कार्यं धर्मः । प्रेत्य मृत्वा ॥ 12 ॥ 5-27-13 परलोके कर्म नास्तीत्याह जहातीति ॥ 13 ॥ 5-27-14 अत्र कर्म कुर्वन् कामवशादमुत्र फलं न प्रार्थयेतेत्यर्थः । कर्मजं फलं त्यक्त्वा परेण वैराग्येण संपन्नो मोक्षार्थं योगाभ्यासमेव कुरुष्व किं राज्येन बन्धुनाशलभ्येनेत्यर्थः ॥ 14 ॥ 5-27-16 तच्चेदिति। भो पार्थाः भो पाण्डवाः तत्पापं कर्म गोत्रवधरूपं द्वेषरूपेण चिराय प्रागेव चेत्करिष्यध्वं तर्हि यद्वने वर्षपूगान् दुःखं वासं निवसध्वं तद्धर्म एवेति यत्तत्पदाध्याहारेण योज्यम्। राज्यार्थं सर्वलोकनाशमिच्छतां भवतां दुर्योधनेन यो वनवासः कारितः स धर्म एवेत्यर्थः ॥ 16 ॥ 5-27-17 पुरस्तात् प्रव्रजनकाले एव यत् यतः पुरस्तादपि एतद्बलं आत्माधीनमेवासीत्। ज्ञातिवधेनापि राज्यसुखमावश्यकं चेत्तर्हि पूर्वमेव सहायसत्वात्कुतो न युद्धं कृतमिति एतदादिश्लोकचतुष्टयर्थः ॥ 17 ॥ 5-27-20 हीनकाले गते काले इत्यर्थः ॥ 20 ॥ 5-27-21 सर्वथापि युद्धं न कर्तव्यं जयपराजययोरव्यवस्थितत्वादित्याह अप्राह इति। भूतेरपैति दैवादिति शेषः ॥ 21 ॥ 5-27-23 अव्याधिजं कटुकं पित्तादिकं विनाप्यरोचकम् । यशोमुषं यशोहरम्। पेयं गिलनीयम्। मन्युं क्रोधम्। प्रशाम्य शान्तो भव ॥ 23 ॥ 5-27-27 देवयानात्पथोऽर्चिरादिमार्गादपुनरावृत्तिफलात् गोत्रद्रोहेण मागा इत्यर्थः ॥ 27 ॥

|
 100000 shlokas.jpg)
|
|
"Bharathiya Sanatana Dharm" and Sanatana Dharmam & Dharmo rakshati Rakshitha logo are our trademarks. Unauthorised use of "Sanatana Dharmam & Dharmo rakshoati Rakshitha" and the logo is not allowed. Copyright © sanatanadharm.com All Rights Reserved . Made in India. |
| |
| |
|
|
| |
|
|
| |
|
|